अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 22
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - पुरस्ताद्बृहती
सूक्तम् - दीर्घायु सूक्त
श॒रदे॑ त्वा हेम॒न्ताय॑ वस॒न्ताय॑ ग्री॒ष्माय॒ परि॑ दद्मसि। व॒र्षाणि॒ तुभ्यं॑ स्यो॒नानि॒ येषु॒ वर्ध॑न्त॒ ओष॑धीः ॥
स्वर सहित पद पाठश॒रदे॑ । त्वा॒ । हे॒म॒न्ताय॑ । व॒स॒न्ताय॑ । ग्री॒ष्माय॑ । परि॑ । द॒द्म॒सि॒ । व॒र्षाणि॑ । तुभ्य॑म् । स्यो॒नानि॑ । येषु॑ । वर्ध॑न्ते । ओष॑धी: ॥२.२२॥
स्वर रहित मन्त्र
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि। वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥
स्वर रहित पद पाठशरदे । त्वा । हेमन्ताय । वसन्ताय । ग्रीष्माय । परि । दद्मसि । वर्षाणि । तुभ्यम् । स्योनानि । येषु । वर्धन्ते । ओषधी: ॥२.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 22
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (त्वा) तुझे (शरदे) शरद्, (हेमन्ताय) हेमन्त [और शिशिर], (वसन्ताय) वसन्त और (ग्रीष्माय) ग्रीष्म [ऋतु] को (परि दद्मसि) हम सौंपते हैं। (वर्षाणि) वर्षाएँ (तुभ्यम्) तेरे लिये (स्योनानि) मनभावनी [होवें], (येषु) जिनमें (ओषधीः) औषधें [अन्न आदि वस्तुयें] (वर्द्धन्ते) बढ़ती हैं ॥२२॥
भावार्थ - मनुष्य सब ऋतुओं से यथावत् उपयोग लेकर सुखी रहें ॥२२॥ इस मन्त्र का मिलान अ० ६।५५।२। से करो जहाँ छह ऋतुएँ वर्णित हैं ॥
टिप्पणी -
२२−(परि दद्मसि) समर्पयामः (वर्षाणि) श्रावणभाद्रात्मको मेघकालः (तुभ्यम्) (स्योनानि) सुखकराणि (येषु) (वर्द्धन्ते) उत्पद्यन्ते (ओषधीः) व्रीहियवादयः। अन्यद् व्याख्यातम्-अ० ६।५५।२। (शरदे) आश्विनकार्तिकात्मकाय कालाय (त्वा) त्वाम् (हेमन्ताय) आग्रहायणपौषात्मकाय कालाय। शिशिरसहिताय माघफाल्गुनसहिताय (ग्रीष्माय) ज्येष्ठाषाढात्मकाय कालाय ॥