अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 25
सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः। यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ॥
स्वर सहित पद पाठसर्व॑: । वै । तत्र॑ । जी॒व॒ति॒ । गौ: । अश्व॑: । पुरु॑ष: । प॒शु॒: । यत्र॑ । इ॒दम् । ब्रह्म॑ । क्रि॒यते॑ । प॒रि॒ऽधि: । जीव॑नाय । कम् ॥२.२५॥
स्वर रहित मन्त्र
सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः। यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥
स्वर रहित पद पाठसर्व: । वै । तत्र । जीवति । गौ: । अश्व: । पुरुष: । पशु: । यत्र । इदम् । ब्रह्म । क्रियते । परिऽधि: । जीवनाय । कम् ॥२.२५॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 25
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
(सर्वः) सब (वै) ही (तत्र) वहाँ (जीवति) जीता रहता है, (गौः) गौ, (अश्वः) घोड़ा, (पुरुषः) पुरुष, और (पशुः) पशु [हाथी ऊँट आदि]। (यत्र) जहाँ पर (इदम्) यह [प्रसिद्ध] (ब्रह्म) ब्रह्म [परमेश्वर] (जीवनाय) जीवन के लिये (कम्) सुख से (परिधिः) कोट [समान रक्षासाधन] (क्रियते) बनाया जाता है ॥२५॥
भावार्थ - जो मनुष्य ब्रह्म के आश्रित रहते हैं, वे जीवन्मुक्त होकर सब सुख भोगते हैं ॥२५॥ इस मन्त्र का सम्बन्ध मन्त्र २३, २४ से है ॥
टिप्पणी -
२५−(सर्वः) निःशेषः (वै) एव (तत्र) ब्रह्माश्रये (जीवति) प्राणान् धारयति (गौः) धेनुः (अश्वः) घोटकः (पुरुषः) मनुष्यः (पशुः) गजोष्ट्रादिः (तत्र) (इदम्) प्रसिद्धम् (ब्रह्म) परिवृढः परमात्मा (परिधिः) प्राकारो यथा रक्षासाधनम् (जीवनाय) प्राणधारणाय (कम्) सुखेन ॥