अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 22
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप्
सूक्तम् - अज सूक्त
अप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑ रुन्द्धे। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठअप॑रिऽमितम् । ए॒व । य॒ज्ञम् । आ॒प्नोति॑ । अप॑रिऽमितम् । लो॒कम् । अव॑ । रु॒न्ध्दे॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२२॥
स्वर रहित मन्त्र
अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठअपरिऽमितम् । एव । यज्ञम् । आप्नोति । अपरिऽमितम् । लोकम् । अव । रुन्ध्दे । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२२॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 22
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
वह [पुरुष] (अपरिमितम्) परिमाणरहित (यज्ञम्) पूजनीय परमेश्वर को (एव) ही (आप्नोति) पाता है, और (अपरिमितम्) तोल-नाप रहित (लोकम्) दर्शनीय परमात्मा को (अव रुन्द्धे) ध्यान में रखता है, (यः) जो पुरुष (पञ्चौदनम्) पाँच भूतों [पृथिवी आदि] के सींचनेवाले, (दक्षिणाज्योतिषम्) दानक्रिया की ज्योति रखनेवाले (अजम्) अजन्मे वा गतिशील परमात्मा को [अपने आत्मा में] (ददाति) समर्पित करता है ॥२२॥
भावार्थ - आत्मसमर्पक पुरुष पूर्ण भक्ति से उस अनन्त जगदीश्वर को पाता है ॥२२॥
टिप्पणी -
२२−(अपरिमितम्) अनन्तम् (एव) अवश्यम् (यज्ञम्) यष्टव्यम् (आप्नोति) प्राप्नोति (अपरिमितम्) (लोकम्) दर्शनीयं जगदीश्वरम् (अव रुन्द्धे) दक्षतया धारयति (यः) (अजम्) जगदीश्वरम् (पञ्चौदनम्) पञ्चभूतसेचकम् (दक्षिणाज्योतिषम्) दक्षिणा दानं ज्योतिः प्रकाशो यस्य तम् (ददाति) समर्पयति स्वहृदये ॥