अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 34
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - दशपदा प्रकृतिः
सूक्तम् - अज सूक्त
यो वै पि॒न्वन्तं॒ नाम॒र्तुं वेद॑। पि॑न्व॒तींपि॑न्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै पि॒न्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । पि॒न्वन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । पि॒न्व॒तीम्ऽपि॑न्वतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । पि॒न्वन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.३४॥
स्वर रहित मन्त्र
यो वै पिन्वन्तं नामर्तुं वेद। पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै पिन्वन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । पिन्वन्तम् । नाम । ऋतुम् । वेद । पिन्वतीम्ऽपिन्वतीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते । एष: । वै । पिन्वन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन: ॥५.३४॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 34
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
(यः) जो [परमेश्वर] (वै) निश्चय करके (पिन्वन्तम्) सींचनेवाले (नाम) प्रसिद्ध (ऋतुम्) ऋतु को (वेद) जानता है और [जो] (अप्रियस्य) अप्रिय (भ्रातृव्यस्य) शत्रु की (पिन्वतीं पिन्वतीम्) अत्यन्त सींचनेवाली (श्रियम्) श्री को (एव) अवश्य (आ दत्ते) ले लेता है। (एषः वै) वही [परमेश्वर] (पिन्वन्) सींचनेवाला (नाम) प्रसिद्ध... म० ३१ ॥३४॥
भावार्थ - अन्न आदि पुष्ट करने का नियम जाननेवाला परमेश्वर है-अन्यत् पूर्ववत् ॥३५॥
टिप्पणी -
३४−(पिन्वन्तम्) पिवि सेचने सेवने च-शतृ। सिञ्चन्तम्। पोषयन्तम् (पिन्वतीं, पिन्वतीम्) अतिशयेन पोषयन्तीम् (पिन्वन्) पोषयन्। अन्यत् पूर्ववत् ॥