अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 2
इन्द्रा॑य भा॒गं परि॑ त्वा नयाम्य॒स्मिन्य॒ज्ञे यज॑मानाय सू॒रिम्। ये नो॑ द्वि॒षन्त्यनु॒ तान्र॑भ॒स्वाना॑गसो॒ यज॑मानस्य वी॒राः ॥
स्वर सहित पद पाठइन्द्रा॑य । भा॒गम् । परि॑ । त्वा॒ । न॒या॒मि॒ । अ॒स्मिन् । य॒ज्ञे । यज॑मानाय । सू॒रिम् । ये । न॒: । द्वि॒षन्ति॑ । अनु॑ । तान् । र॒भ॒स्व॒ । अना॑गस: । यज॑मानस्य । वी॒रा: ॥५.२॥
स्वर रहित मन्त्र
इन्द्राय भागं परि त्वा नयाम्यस्मिन्यज्ञे यजमानाय सूरिम्। ये नो द्विषन्त्यनु तान्रभस्वानागसो यजमानस्य वीराः ॥
स्वर रहित पद पाठइन्द्राय । भागम् । परि । त्वा । नयामि । अस्मिन् । यज्ञे । यजमानाय । सूरिम् । ये । न: । द्विषन्ति । अनु । तान् । रभस्व । अनागस: । यजमानस्य । वीरा: ॥५.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 2
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
[हे अज, आत्मा !] (अस्मिन्) इस (यज्ञे) संगतिकरण व्यवहार में (यजमानाय) यजमान [संगतिकर्ता] को (इन्द्राय) परम ऐश्वर्य के लिये (त्वा) तुझे (सूरिम्) विद्वान् (भागम् परि) सेवनीय [परमात्मा] की ओर (नयामि) मैं लाता हूँ। (ये) जो [दोष] (नः) हमें (द्विषन्ति) सताते हैं, (तान्) उनको (अनु रभस्व) निरन्तर पकड़ [वश में कर], (यजमानस्य) श्रेष्ठ व्यवहारवाले के (वीरः) वीर पुरुष (अनागसः) निर्दोष [होवें] ॥२॥
भावार्थ - जो पुरुष परम ऐश्वर्यवाले परमात्मा में श्रद्धा करके अपने दोषों को मिटाते हैं, वे अपनी और संसार की उन्नति करते हैं ॥२॥
टिप्पणी -
२−(इन्द्राय) परमैश्वर्यप्राप्तये (भागम्) भज सेवायाम्-घञ्। सेवनीयम् (परि) प्रति। अनुलक्ष्य (त्वा) जीवात्मानम् (नयामि) गमयामि (अस्मिन्) (यज्ञे) संगतिकरणे (यजमानाय) संगतिकरणशीलाय (सूरिम्) अ० २।११।४। विद्वांसम् (ये) दोषाः (नः) अस्मान् (द्विषन्ति) दूषयन्ति (अनु) निरन्तरम् (तान्) (रभस्व) लभस्व। निगृहाण (अनागसः) अ० ७।६।३। अनपराधाः (यजमानस्य) श्रेष्ठव्यवहारिणः (वीराः) शूराः ॥