अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 29
अ॑नुपू॒र्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्। वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम् ॥
स्वर सहित पद पाठअ॒नु॒पू॒र्वऽव॑त्साम् । धे॒नुम् । अ॒न॒ड्वाह॑म् । उ॒प॒ऽबर्ह॑णम् । वास॑: । हिर॑ण्यम् । द॒त्त्वा । ते । य॒न्ति॒ । दिव॑म् । उ॒त्ऽत॒माम् ॥५.२९॥
स्वर रहित मन्त्र
अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम्। वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥
स्वर रहित पद पाठअनुपूर्वऽवत्साम् । धेनुम् । अनड्वाहम् । उपऽबर्हणम् । वास: । हिरण्यम् । दत्त्वा । ते । यन्ति । दिवम् । उत्ऽतमाम् ॥५.२९॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 29
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
(अनुपूर्ववत्साम्) यथाक्रम [एक के पीछे एक] बच्चेवाली (धेनुम्) गौ, (अनड्वाहम्) अन्न पहुँचानेवाला बैल, (उपबर्हणम्) वालिश [सिराहने का वस्त्र आदि], (वासः) वस्त्र, (हिरण्यम्) सुवर्ण (दत्त्वा) दान करके (ते) वे [धर्म्मात्मा लोग] (उत्तमाम्) उत्तम (दिवम्) गति (यन्ति) पाते हैं ॥२९॥
भावार्थ - धर्म्मात्मा मनुष्य सुपात्रों को विविध प्रकार दान करके उनकी उन्नति से अपनी उन्नति करते हैं ॥२९॥
टिप्पणी -
२९−(अनुपूर्ववत्साम्) यथाक्रमशिशुमतीम् (धेनुम्) तर्पयित्रीं गाम् (अनड्वाहम्) अ० ४।११।१। अनस्+वह प्रापणे-क्विप्। अन्नप्रापकं वृषभम् (उपबर्हणम्) उप+बृह वृद्धौ उद्यमे च-ल्युट्। शिरोधानम्। वालिशम् (वासः) वस्त्रम् (हिरण्यम्) सुवर्णम् (दत्त्वा) (ते) धार्मिकाः (यन्ति) प्राप्नुवन्ति (दिवम्) दिवु गतौ-डिवि। गतिम् (उत्तमाम्) श्रेष्ठाम् ॥