अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 24
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताविराड्जगती
सूक्तम् - अज सूक्त
इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति। इषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठइ॒दम्ऽइ॑दम् । ए॒व । अ॒स्य॒ । रू॒पम् । भ॒व॒ति॒ । तेन॑ । ए॒न॒म् । सम् । ग॒म॒य॒ति॒ । इष॑म् । मह॑: । ऊर्ज॑म् । अ॒स्मै॒ । दु॒हे॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२४॥
स्वर रहित मन्त्र
इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति। इषं मह ऊर्जमस्मै दुहे योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठइदम्ऽइदम् । एव । अस्य । रूपम् । भवति । तेन । एनम् । सम् । गमयति । इषम् । मह: । ऊर्जम् । अस्मै । दुहे । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 24
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
(अस्य) इस [परमेश्वर] का (रूपम्) रूप [सौन्दर्य] (इदमिदम्) इस-इस [प्रत्येक वस्तु] में (एव) ही (भवति) पहुँचता है, [तभी वह सर्वव्यापक रूप] (तेन) उस [परमात्मा] के साथ (एनम्) इस जीवात्मा को (सम् गमयति) मिला देता है। वह [पुरुष] (इषम्) अन्न, (महः) बड़ाई (ऊर्जम्) और पराक्रम (अस्मै) इसके लिये [अपने लिये] (दुहे) दोहता है (यः) जो पुरुष (पञ्चौदनम्) पाँच भूतों [पृथिवी आदि] के सींचनेवाले, (दक्षिणाज्योतिषम्) दानक्रिया की ज्योति रखनेवाले (अजम्) अजन्मे वा गतिशील परमात्मा को [अपने आत्मा में] (ददाति) समर्पित करता है ॥२४॥
भावार्थ - मनुष्य पूर्ण भक्ति से परमात्मा के नियमों पर चलकर सब प्रकार के आनन्द और पराक्रम को प्राप्त होता है ॥२४॥
टिप्पणी -
२४−(इदमिदम्) प्रतिद्रव्यम् (एव) निश्चयेन (अस्य) परमात्मनः (रूपम्) सौन्दर्य्यम् (भवति) भू प्राप्तौ। प्राप्नोति (तेन) ईश्वरेण सह (एनम्) जीवात्मानम् (संगमयति) संयोजयति तद्रूपम् (इषम्) अन्नम् (महः) महत्त्वम् (ऊर्जम्) पराक्रमम् (अस्मै) समीपवर्तिने। स्वस्मै (दुहे) दुग्धे। प्रपूरयति। अग्रे गतम्-म० २२ ॥