अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 12
ई॑जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न्पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। स व्याप्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॒ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ॥
स्वर सहित पद पाठई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । लो॒कम् । ईप्स॑न् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । स: । विऽआ॒प्तिम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् । शि॒व: । अ॒स्मभ्य॑म् । प्रति॑ऽगृहीत:। अ॒स्तु॒ ॥५.१२॥
स्वर रहित मन्त्र
ईजानानां सुकृतां लोकमीप्सन्पञ्चौदनं ब्रह्मणेऽजं ददाति। स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥
स्वर रहित पद पाठईजानानाम् । सुऽकृताम् । लोकम् । ईप्सन् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति । स: । विऽआप्तिम् । अभि । लोकम् । जय । एतम् । शिव: । अस्मभ्यम् । प्रतिऽगृहीत:। अस्तु ॥५.१२॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 12
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
(ईजानानाम्) यज्ञ [देवपूजा, संगतिकरण, दान] कर चुकनेवाले (सुकृताम्) सुकर्मियों के (लोकम्) लोक को (ईप्सन्) चाहता हुआ पुरुष (ब्रह्मणे) ब्रह्म [परमेश्वर] के लिये (पञ्चौदनम्) पाँच भूतों [पृथिवी आदि] से सींचे हुए (अजम्) अजन्मे वा गतिशील जीवात्मा का (ददाति) दान करता है। [इसलिये] (सः) वह तू (व्याप्तिम् अभि) [सुख की] पूर्ण प्राप्ति के लिये (एतम् लोकम्) इस लोक को (जय) जीत, [जिससे, परमेश्वर करके] (प्रतिगृहीतः) स्वीकार किया हुआ [जीवात्मा] (अस्मभ्यम्) हमारे लिये (शिवः) मङ्गलकारी (अस्तु) होवे ॥१२॥
भावार्थ - जो मनुष्य अग्रज आप्त विद्वानों के समान परमेश्वर की आज्ञापालन में आत्मसमर्पण करके पुरुषार्थ करता है, वह सबके लिये मङ्गलकारी होता है ॥१२॥
टिप्पणी -
१२−(ईजानानाम्) म० ८। यज्ञं कुर्वताम् (सुकृताम्) सुकर्मिणाम् (लोकम्) दर्शनीयं पदम् (ईप्सन्) प्राप्तुमिच्छन् (पञ्चौदनम्) म० ८। पञ्चभूतैः सिक्तम् (ब्रह्मणे) परमेश्वराय (अजम्) जीवात्मानम् (ददाति) (सः) स त्वम् (व्याप्तिम्) विविधां सुखप्राप्तिम् (अभि) प्रति (लोकम्) (जय) उत्कर्षेण प्राप्नुहि (एतम्) (शिवः) मङ्गलकारी (अस्मभ्यम्) (प्रतिगृहीतः) ब्रह्मणा स्वीकृतः (अस्तु) ॥