अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 13
अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒द्विप्रो॒ विप्र॑स्य॒ सह॑सो विप॒श्चित्। इ॒ष्टं पू॒र्तम॒भिपू॑र्तं॒ वष॑ट्कृतं॒ तद्दे॒वा ऋ॑तु॒शः क॑ल्पयन्तु ॥
स्वर सहित पद पाठअ॒ज: । हि । अ॒ग्ने: । अज॑निष्ट । शोका॑त् । विप्र॑: । विप्र॑स्य । सह॑स: । वि॒प॒:ऽचित् । इ॒ष्टम् । पू॒र्तम् । अ॒भिऽपू॑र्तम् । वष॑ट्ऽकृतम् । तत् । दे॒वा: । ऋ॒तु॒ऽश: । क॒ल्प॒य॒न्तु॒ ॥५.१३॥
स्वर रहित मन्त्र
अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्। इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥
स्वर रहित पद पाठअज: । हि । अग्ने: । अजनिष्ट । शोकात् । विप्र: । विप्रस्य । सहस: । विप:ऽचित् । इष्टम् । पूर्तम् । अभिऽपूर्तम् । वषट्ऽकृतम् । तत् । देवा: । ऋतुऽश: । कल्पयन्तु ॥५.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 13
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
(अजः) अजन्मा वा गतिशील जीवात्मा (शोकाद्) दीप्यमान (अग्नेः) सर्वव्यापक परमेश्वर से (हि) ही (अजनिष्ट) प्रकट हुआ है, [वह] (विप्रः) बुद्धिमान् [जीव] (विप्रस्य) बुद्धिमान् [परमेश्वर] के (सहसः) बल का (विपश्चित्) भले प्रकार विचारनेवाला है। (तत्) इसलिये (देवाः) विद्वान् लोग (अभिपूर्तम्) सम्पूर्ण (वषट्कृतम्) भक्ति से सिद्ध किये हुए (इष्टम्) यज्ञ, वेदाध्ययन आदि और (पूर्तम्) अन्नदानादि पुण्यकर्म को (ऋतुशः) प्रत्येक ऋतु में (कल्पयन्तु) समर्थ करें ॥१३॥
भावार्थ - मनुष्य परमेश्वर की महिमा को जानकर अपने सब उत्तम कर्मों को सब काल में सिद्ध करें ॥१३॥ इस मन्त्र का प्रथम पाद आ चुका है-अ० ४।१४।१ ॥
टिप्पणी -
१३−(अजः) म० १। जीवात्मा (हि) निश्चयेन (अग्नेः) सर्वव्यापकात् परमेश्वरात् (अजनिष्ट) प्रादुरभूत् (शोकात्) अ० ४।१४।१। दीप्यमानात् (विप्रः) अ० ३।३।२। मेधावी जीवात्मा (विप्रस्य) मेधाविनः परमेश्वरस्य (सहसः) बलस्य (विपश्चित्) अ० ६।५२।३। विविधं प्रकर्षेण चेतिता ज्ञाता (इष्टम्) अ० २।१२।४। यज्ञवेदाध्ययनादि कर्म (पूर्तम्) अन्नदानादि पुण्यकर्म (अभिपूर्तम्) सम्पूर्णम् (वषट्कृतम्) अ० १।११।१। वह प्रापणे-डषटि+करोतेः क्त। भक्त्या निष्पादितम् (तत्) तस्मात् (देवाः) विद्वांसः (ऋतुशः) संख्यैकवचनाच्च वीप्सायाम्। पा० ५।४।४३। ऋतु-शस्। ऋतुवृतौ। काले काले (कल्पयन्तु) समर्थयन्तु ॥