अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 25
पञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्रा॒ पञ्चा॑स्मै धे॒नवः॑ काम॒दुघा॑ भवन्ति। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठपञ्च॑ । रु॒क्मा । पञ्च॑ । नवा॑नि । वस्रा॑ । पञ्च॑ । अ॒स्मै॒ । धे॒नव॑: । का॒म॒ऽदुघा॑: । भ॒व॒न्ति॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२५॥
स्वर रहित मन्त्र
पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठपञ्च । रुक्मा । पञ्च । नवानि । वस्रा । पञ्च । अस्मै । धेनव: । कामऽदुघा: । भवन्ति । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२५॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 25
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
(पञ्च) विस्तृत (रुक्मा) रोचक वस्तुएँ [सुवर्ण आदि], (पञ्च) विस्तृत (नवानि) नवीन (वस्त्रा) वस्त्र, और (पञ्च) विस्तृत (धेनवः) तृप्त करनेवाली वेद वाचाएँ [विद्याएँ] (अस्मै) उस [पुरुष] के लिये (कामदुघाः) कामनाएँ पूरी करनेवाली (भवन्ति) होती हैं। (यः) जो पुरुष (पञ्चौदनम्) पाँच भूतों [पृथिवी आदि] के सींचनेवाले, (दक्षिणाज्योतिषम्) दानक्रिया की ज्योति रखनेवाले (अजम्) अजन्मे वा गतिशील परमात्मा को [अपने आत्मा में] (ददाति) समर्पित करता है ॥२५॥
भावार्थ - आत्मत्यागी मनुष्य परमेश्वर की भक्ति से सब प्रकार के सुख प्राप्त करता है ॥२५॥
टिप्पणी -
२५−(पञ्च) सप्यशूभ्यां तुट् च। उ० १।१५७। पचि विस्तारे-कनिन्। सुपां सुलुक्०। पा० ७।१।३९। जसः सुः। विस्तृतानि (रुक्मा) युजिरुचितिजां कुश्च। उ० १।१४६। रुच दीप्तावभिप्रीतौ च-मक् कुत्वं च। रोचकानि वस्तूनि सुवर्णादीनि (पञ्च) (नवानि) नूतनानि (वस्त्रा) वासांसि (पञ्च) विस्तृताः (अस्मै) पुरुषाय (धेनवः) अ० ७।७३।२। तर्पयित्र्यो वेदवाचः (कामदुघाः) अ० ४।३४।८। कामानां पूरयित्र्यः (भवन्ति) सन्ति। अन्यत् पूर्ववत् ॥