अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 21
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - चतुरवसाना दशपदा त्रैष्टुभगर्भातिधृतिः
सूक्तम् - विजय प्राप्ति सूक्त
यो व॑ आपो॒ऽपाम॒ग्नयो॒ऽप्स्वन्तर्य॑जु॒ष्यो॑ष्या देव॒यज॑नाः। इ॒दं तानति॑ सृजामि॒ तं माभ्यव॑निक्षि। तैस्तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥
स्वर सहित पद पाठये । व॒: । आ॒प॒: । अ॒पाम् । अ॒ग्नय॑: । अ॒प्ऽसु । अ॒न्त: । य॒जु॒ष्या᳡: । दे॒व॒ऽयज॑ना: । इ॒दम् । तान् । अति॑ । सृ॒जा॒मि॒ । तान् । मा । अ॒भि॒ऽअव॑निक्षि । तै: । तम् । अ॒भि॒ऽअति॑सृजाम: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒धे॒य॒म् । तम् । स्तृ॒षी॒य॒ । अ॒नेन॑ । ब्रह्म॑णा । अ॒नेन॑ । कर्म॑णा । अ॒नया॑ । मे॒न्या ॥५.२१॥
स्वर रहित मन्त्र
यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्योष्या देवयजनाः। इदं तानति सृजामि तं माभ्यवनिक्षि। तैस्तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥
स्वर रहित पद पाठये । व: । आप: । अपाम् । अग्नय: । अप्ऽसु । अन्त: । यजुष्या: । देवऽयजना: । इदम् । तान् । अति । सृजामि । तान् । मा । अभिऽअवनिक्षि । तै: । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.२१॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 21
Translation -
What of you, O waters, are the fires of the waters within the waters of the nature of sacrificial rites (yajusya), useful for the congregation of the enlightened ones (gods, devas), them now I let go; them let me not wahsdown against myself; them we let go against him who hates us, whom we hate. Him may I slay or stab; him may I lay low with this prayer (brahmaņā), with this action (karmaņā), with this weapon (meni).