अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 35
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा प्रा॒णसं॑शितः॒ पुरु॑षतेजाः। प्रा॒णमनु॒ वि क्र॑मे॒ऽहं प्रा॒णात्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्र॒म॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । प्रा॒णऽसं॑शित: । पुरु॑षऽतेजा: । प्रा॒णम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । प्रा॒णात् । तम् । नि । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३५॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः। प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । प्राणऽसंशित: । पुरुषऽतेजा: । प्राणम् । अनु । वि । क्रमे । अहम् । प्राणात् । तम् । नि । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३५॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 35
Translation -
You are the stride (krama) of the Lord (Visņu) slayer of rivals, sharpened by the vital breaths (prāņa), full of man’s might (purusa-teja). I stride forth in the vital breaths. From the vital breaths, we drive out him, who hates us and whom we do hate; May he not live. May the vital breath quit him.