अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 36
सूक्त - कौशिकः
देवता - मृत्यु
छन्दः - पञ्चपदातिशाक्वरातिजागतगर्भाष्टिः
सूक्तम् - विजय प्राप्ति सूक्त
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः। इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥
स्वर सहित पद पाठजि॒तम् । अ॒स्माक॑म् । उत्ऽभि॑न्नम् । अ॒स्माक॑म् । अ॒भि । अ॒स्था॒म् । विश्वा॑: । पृत॑ना: । अरा॑ती: । इ॒दम् । अ॒हम् । आ॒मु॒ष्या॒य॒णस्य॑ । अ॒मुष्या॑: । पु॒त्रस्य॑ । वर्च॑: । तेज॑: । प्रा॒णम् । आयु॑: । नि । वे॒ष्ट॒या॒मि॒ । इ॒दम् । ए॒न॒म् । अ॒ध॒राञ्च॑म् । पा॒द॒या॒मि॒ ॥५.३६॥
स्वर रहित मन्त्र
जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः। इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥
स्वर रहित पद पाठजितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । अभि । अस्थाम् । विश्वा: । पृतना: । अराती: । इदम् । अहम् । आमुष्यायणस्य । अमुष्या: । पुत्रस्य । वर्च: । तेज: । प्राणम् । आयु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥५.३६॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 36
Translation -
Ours is the victory (jitam). Ours is the rising up. I have thrown back all the hosts of enemies, I hereby invest the lustre, brilliance, the vital breath and life-span of so and so (amusya), of such and such lineage, and the son of such and such (amusya) woman. I hereby make him fall down (adharām pada yāmi).