अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 11
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - भुरिगार्च्यनुष्टुप्
सूक्तम् - ओदन सूक्त
इ॒यमे॒व पृ॑थि॒वी कु॒म्भी भ॑वति॒ राध्य॑मानस्यौद॒नस्य॒ द्यौर॑पि॒धान॑म् ॥
स्वर सहित पद पाठइ॒यम् । ए॒व । पृ॒थि॒वी । कु॒म्भी । भ॒व॒ति॒ । राध्य॑मानस्य । ओ॒द॒नस्य॑ । द्यौ: । अ॒पि॒ऽधान॑म् ॥३.११॥
स्वर रहित मन्त्र
इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥
स्वर रहित पद पाठइयम् । एव । पृथिवी । कुम्भी । भवति । राध्यमानस्य । ओदनस्य । द्यौ: । अपिऽधानम् ॥३.११॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 11
Translation -
This very earth is the vessel (kumbhi) of the finishing (radh) rice dish, heaven the cover.