Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 1
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    यन्म॒न्युर्जा॒यामाव॑हत्संक॒ल्पस्य॑ गृ॒हादधि॑। क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोभ॑वत् ॥

    स्वर सहित पद पाठ

    यत् । म॒न्यु: । जा॒याम् । आ॒ऽअव॑हत् । स॒म्ऽक॒ल्पस्य॑ । गृ॒हात् । अधि॑ । के । आ॒स॒न् । जन्या॑: । के । व॒रा: । क: । ऊं॒ इति॑ । ज्ये॒ष्ठ॒ऽव॒र: । अ॒भ॒व॒त् ॥१०.१॥


    स्वर रहित मन्त्र

    यन्मन्युर्जायामावहत्संकल्पस्य गृहादधि। क आसं जन्याः के वराः क उ ज्येष्ठवरोभवत् ॥

    स्वर रहित पद पाठ

    यत् । मन्यु: । जायाम् । आऽअवहत् । सम्ऽकल्पस्य । गृहात् । अधि । के । आसन् । जन्या: । के । वरा: । क: । ऊं इति । ज्येष्ठऽवर: । अभवत् ॥१०.१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 1

    टिप्पणीः - १−(यत्) यदा (मन्युः) अ० १।१०।१। यजिमनिशुन्धि०। उ० ३।२०। मन ज्ञाने-युच्। सर्वज्ञः परमेश्वरः (जायाम्) जनेर्यक्। उ० ४।१११। जन जनने-यक्। जायतेऽस्यां सर्वं जगदिति जाया तां सृष्टिक्रियाम् (आवहत्) समन्तात् प्रापयत्। प्रकटीकृतवान् (सङ्कल्पस्य) मनोविचारस्य (गृहात्) गृह ग्रहणे क। ग्रहणात्। स्वीकरणात् (अधि) अधिकारपूर्वकम् (आसन्) अभवन् (जन्याः) तत्र साधुः। पा० ४।४।९८। जन-यत्। जने जनने, उत्पादने, साधका योग्याः पदार्थाः (के) (वराः) वरणीया इष्टपदार्थाः (कः) (उ) एव (ज्येष्ठवरः) ज्येष्ठाः सर्वोत्कृष्टा वरा वरणीयपदार्था यस्मात् सः ॥

    इस भाष्य को एडिट करें
    Top