Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 18
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    य॒दा त्वष्टा॒ व्यतृ॑णत्पि॒ता त्वष्टु॒र्य उत्त॑रः। गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥

    स्वर सहित पद पाठ

    य॒दा । त्वष्टा॑ । वि॒ऽअतृ॑णत् । पि॒ता । त्वष्टु॑: । य: । उत्त॑र: । गृ॒हम् । कृ॒त्वा । मर्त्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.१८॥


    स्वर रहित मन्त्र

    यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः। गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥

    स्वर रहित पद पाठ

    यदा । त्वष्टा । विऽअतृणत् । पिता । त्वष्टु: । य: । उत्तर: । गृहम् । कृत्वा । मर्त्यम् । देवा: । पुरुषम् । आ । अविशन् ॥१०.१८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 18

    टिप्पणीः - १८−(यदा) यस्मिन् सृष्टिकाले (त्वष्टा) विश्वकर्मा। सृष्टिकर्ता परमेश्वरः (व्यतृणत्) उतृदिर् हिंसानादरयोः। विविधं छिद्राणि कृतवान् पुरुषशरीरे (पिता) पालकः (त्वष्टुः) कर्मकर्तुः प्राणिनः (यः) (उत्तरः) उत्कृष्टतरः (गृहम्) आवासस्थानम् (कृत्वा) निर्माय (मर्त्यम्) मरणधर्मकं नश्वरं शरीरम् (देवाः) दिव्यपदार्थाः। इन्द्रियशक्तयः (पुरुषम्) पुरुषशरीरम् (आ अविशन्) प्रविष्टवन्तः ॥

    इस भाष्य को एडिट करें
    Top