Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 3
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    दश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा। यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद्व॑देत् ॥

    स्वर सहित पद पाठ

    दश॑ । सा॒कम् । अ॒जा॒य॒न्त॒ । दे॒वा: । दे॒वेभ्य॑: । पु॒रा । य: । वै । तान् । वि॒द्यात् । प्र॒ति॒ऽअक्ष॑म् । स: । वै । अ॒द्य । म॒हत् । व॒दे॒त् ॥१०.३॥


    स्वर रहित मन्त्र

    दश साकमजायन्त देवा देवेभ्यः पुरा। यो वै तान्विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत् ॥

    स्वर रहित पद पाठ

    दश । साकम् । अजायन्त । देवा: । देवेभ्य: । पुरा । य: । वै । तान् । विद्यात् । प्रतिऽअक्षम् । स: । वै । अद्य । महत् । वदेत् ॥१०.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 3

    टिप्पणीः - ३−(दश) दशसंख्याकाः (साकम्) सह (अजायन्त) प्रादुरभवन् (देवाः) स्वस्वविषयप्रकाशनशीलानि ज्ञानकर्मेन्द्रियाणि (देवेभ्यः) पञ्चमी विभक्तिः। दिव्यपदार्थेभ्यः। पूर्वकर्मफलानां सकाशात् (पुरा) पुरातनकाले वर्तमानेभ्यः (यः) विवेकी (वै) (तान्) (विद्यात्) जानीयात् (प्रत्यक्षम्) साक्षात्कारेण (सः) (वै) (अद्य) अस्मिन् दिने (महत्) पूजनीयं ब्रह्म (वदेत्) उपदिशेत् ॥

    इस भाष्य को एडिट करें
    Top