अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 14
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
ऊ॒रू पादा॑वष्ठी॒वन्तौ॒ शिरो॒ हस्ता॒वथो॒ मुख॑म्। पृ॒ष्टीर्ब॑र्जह्ये पा॒र्श्वे कस्तत्सम॑दधा॒दृषिः॑ ॥
स्वर सहित पद पाठऊ॒रू इति॑ । पादौ॑ । अ॒ष्ठी॒वन्तौ॑ । शिर॑: । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् । पृ॒ष्टी: । ब॒र्ज॒ह्ये॒३॑ इति॑ । पा॒र्श्वे इति॑ । क: । तत् । सम् । अ॒द॒धा॒त् । ऋषि॑: ॥१०.१४॥
स्वर रहित मन्त्र
ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम्। पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥
स्वर रहित पद पाठऊरू इति । पादौ । अष्ठीवन्तौ । शिर: । हस्तौ । अथो इति । मुखम् । पृष्टी: । बर्जह्ये३ इति । पार्श्वे इति । क: । तत् । सम् । अदधात् । ऋषि: ॥१०.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(ऊरू) जानूपरिभागौ (पादौ) (अष्ठीवन्तौ) अ० २।२३।५। ऊरुपादयोर्मध्यस्थे जानुनी (शिरः) मस्तकम् (हस्तौ) (अथो) अपि च (मुखम्) (पृष्ठीः) अ० २।७।५। पर्श्वस्थीनि (बर्जह्ये) बल जीवने-विच्, लस्य रः+जनेर्यक्। उ० ४।१११। ओहाक् त्यागे-यक्। जहातेर्द्वे च। उ० २।४। इति श्रवणाद् द्वित्वम्। कुचाग्रभागौ (पार्श्वे) अ० २।३३।३। कक्षयोरधोभागौ (कः) प्रश्ने (समदधात्) संहितवान् संश्लिष्टवान् (ऋषिः) अ० २।६।१। ज्ञानवान् ॥
इस भाष्य को एडिट करें