अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 7
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
येत आसी॒द्भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद्वि॒दुः। यो वै तां॑ वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित् ॥
स्वर सहित पद पाठया । इत॒: । आसी॑त् । भूमि॑: । पूर्वा॑ । याम् । अ॒ध्दा॒तय॑: । इत् । वि॒दु: । य: । वै । ताम् । वि॒द्यात् । ना॒मऽथा॑ । स: । म॒न्ये॒त॒ । पु॒रा॒ण॒ऽवित् ॥१०.७॥
स्वर रहित मन्त्र
येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः। यो वै तां विद्यान्नामथा स मन्येत पुराणवित् ॥
स्वर रहित पद पाठया । इत: । आसीत् । भूमि: । पूर्वा । याम् । अध्दातय: । इत् । विदु: । य: । वै । ताम् । विद्यात् । नामऽथा । स: । मन्येत । पुराणऽवित् ॥१०.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(या) भूमिः (इतः) दृश्यमानाया भूमेः (आसीत्) अभवत् (भूमिः) (पूर्वा) पूर्वकल्पस्था (याम्) पूर्वां भूमिम् (अद्धातयः) अ० ६।७६।२। अद्धा+अत सातत्यगमने-इन्। अद्धा सत्यमतन्ति जानन्ति ते। सत्यज्ञातारः। मेधाविनः-निघ० ३।१५। (इत्) एव (विदुः) जानन्ति (यः) विद्वान् (वै) खलु (ताम्) पूर्वां भूमिम् (नामथा) नामप्रकारेण। यथार्थज्ञानेन (सः) (मन्येत) कर्मणि यक्। ज्ञायेत। बुध्येत (पुराणवित्) पूर्ववृत्तान्तवेत्ता ॥
इस भाष्य को एडिट करें