अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 27
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
आ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः। चि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठआ॒ऽशिष॑: । च॒ । प्र॒ऽशिष॑: । च॒ । स॒म्ऽशिष॑: । वि॒ऽशिष॑: । च॒ । या: । चि॒त्तानि॑ । सर्वे॑ । स॒म्ऽक॒ल्पा: । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२७॥
स्वर रहित मन्त्र
आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः। चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥
स्वर रहित पद पाठआऽशिष: । च । प्रऽशिष: । च । सम्ऽशिष: । विऽशिष: । च । या: । चित्तानि । सर्वे । सम्ऽकल्पा: । शरीरम् । अनु । प्र । अविशन् ॥१०.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(आशिषः) आङः शासु इच्छायाम्-क्विप्। उपधाया इत्वम्। आशीर्वादाः। हितप्रार्थनाः (प्रशिषः) शासु अनुशिष्टौ-क्विप्। उत्तमानि शासनानि (संशिषः) सम्यक् शासनानि। प्रबन्धकर्माणि (विशिषः) विशेषपरामर्शाः (च) (याः) (चित्तानि) विचाराः (सर्वे) (सङ्कल्पाः) दृढमनोरथाः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें