Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 28
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    आस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः। गुह्याः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन् ॥

    स्वर सहित पद पाठ

    आस्ते॑यी: । च॒ । वास्ते॑यी: । च॒ । त्व॒र॒णा: । कृ॒प॒णा: । च॒ । या: । गुह्या॑: । शु॒क्रा: । स्थू॒ला: । अ॒प: । ता: । बी॒भ॒त्सौ । अ॒सा॒द॒य॒न् ॥१०.२८॥


    स्वर रहित मन्त्र

    आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः। गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥

    स्वर रहित पद पाठ

    आस्तेयी: । च । वास्तेयी: । च । त्वरणा: । कृपणा: । च । या: । गुह्या: । शुक्रा: । स्थूला: । अप: । ता: । बीभत्सौ । असादयन् ॥१०.२८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 28

    टिप्पणीः - २८−(आस्तेयीः) वसेस्तिः। उ० ४।१८०। असु क्षेपणे-ति। अस्यते क्षिप्यते या नाडीषु सा अस्तिः, असृग् रक्तम्। दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्। पा० ४।३।५६। अस्ति−ढञ्। तत्र भव इत्यर्थे, ङीप्−च। आस्तेय्यः। रक्ते वर्तमानाः (वास्तेयीः) वस्ति−ढञ् पूर्ववत्। मूत्राधारे नाभेरधोभागे भवाः (च) (त्वरणाः) त्वरया गच्छन्त्यः (कृपणाः) रञ्जेः क्युन्। उ० २।७९। कृप दौर्बल्ये−क्युन्। दुर्बलाः। कृशाः (च) (याः) आपः (गुह्याः) गुहायां गर्ते भवाः (शुक्राः) शुक्रे वीर्ये रजसि वा भवाः (स्थूलाः) घनाः। स्निग्धाः (अपः) जलानि (ताः) पूर्वोक्ताः (बीभत्सौ) मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य। पा० ३।१।६। बध बन्धने-सन् स्वार्थे। सनाशंसभिक्ष उः। पा० ३।२।१६८। उ प्रत्ययः। परस्परसम्बन्धिनि शरीरे (असादयन्) षद्लृ गतौ-णिच्, लङ्। प्रापितवन्तः। प्रेरितवन्तः ॥

    इस भाष्य को एडिट करें
    Top