अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 15
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
शिरो॒ हस्ता॒वथो॒ मुखं॑ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः। त्व॒चा प्रा॒वृत्य॒ सर्वं॒ तत्सं॒धा सम॑दधान्म॒ही ॥
स्वर सहित पद पाठशिर॑: । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् । जि॒ह्वाम् । ग्री॒वा: । च॒ । कीक॑सा: । त्व॒चा । प्र॒ऽआ॒वृत्य॑ । सर्व॑म् । तत् । स॒म्ऽधा । सम् । अ॒द॒धा॒त् । म॒ही ॥१०.१५॥
स्वर रहित मन्त्र
शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः। त्वचा प्रावृत्य सर्वं तत्संधा समदधान्मही ॥
स्वर रहित पद पाठशिर: । हस्तौ । अथो इति । मुखम् । जिह्वाम् । ग्रीवा: । च । कीकसा: । त्वचा । प्रऽआवृत्य । सर्वम् । तत् । सम्ऽधा । सम् । अदधात् । मही ॥१०.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(जिह्वाम्) रसनाम् (ग्रीवाः) अ० २।३३।२। कन्धरावयवान् (च) (कीकसाः) अ० २।३३।२। जत्रुवक्षोगतास्थीनि (त्वचा) चर्मणा (प्रावृत्य) आच्छाद्य (सर्वम्) (तत्) पूर्वोक्तम् (सन्धा) आतश्चोपसर्गे। पा० ३।१।१३६। इति संदधातेः कर्तरि-क प्रत्ययः। सन्धानकर्त्री शक्तिः परमेश्वरः (मही) महती। अन्यत् पूर्ववत्-म० १४ ॥
इस भाष्य को एडिट करें