अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 34
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अ॒प्सु स्ती॒मासु॑ वृ॒द्धासु॒ शरी॑रमन्त॒रा हि॒तम्। तस्मि॒ञ्छवोऽध्य॑न्त॒रा तस्मा॒च्छवोऽध्यु॑च्यते ॥
स्वर सहित पद पाठअ॒प्ऽसु । स्ती॒मासु॑ । वृ॒ध्दासु॑ । शरी॑रम् । अ॒न्त॒रा । हि॒तम् । तस्मि॑न् । शव॑: । अधि॑ । अ॒न्त॒रा । तस्मा॑त् । शव॑: । अधि॑ । उ॒च्य॒ते॒ ॥१०.३४॥
स्वर रहित मन्त्र
अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम्। तस्मिञ्छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥
स्वर रहित पद पाठअप्ऽसु । स्तीमासु । वृध्दासु । शरीरम् । अन्तरा । हितम् । तस्मिन् । शव: । अधि । अन्तरा । तस्मात् । शव: । अधि । उच्यते ॥१०.३४॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 34
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३४−(अप्सु) आपः=अन्तरिक्षम्-निघ० १।३। अन्तरिक्षे। आकाशे (स्तीमासु) ष्टीम आर्द्रीभावे-पचाद्यच्। आर्द्रं कुर्वतीषु। वाष्पयुक्तासु (वृद्धासु) वृद्धियुक्तासु (शरीरम्) (अन्तरा) मध्ये (हितम्) धृतम् (तस्मिन्) शरीरे (शवः) अ० ५।२।२। श्वेः सम्प्रसारणं च। उ० ४।१५३। टुओश्वि गतिवृद्ध्योः-असुन्। बलम्-निघ० २।९। गतिकरं वृद्धिकरं वा जीवात्मरूपं बलम् (अधि) उपरि (तस्मात्) जीवात्मनः सकाशात् (शवः) गतिकरं वृद्धिकरं वा परमात्मरूपं बलम् (अधि) उपरि (उच्यते) कथ्यते ॥
इस भाष्य को एडिट करें