अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 5
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अजा॑ता आसन्नृ॒तवोऽथो॑ धा॒ता बृह॒स्पतिः॑। इ॑न्द्रा॒ग्नी अ॒श्विना॒ तर्हि॒ कं ते ज्ये॒ष्ठमुपा॑सत ॥
स्वर सहित पद पाठअजा॑ता: । आ॒स॒न् । ऋ॒तव॑: । अथो॒ इति॑ । धा॒ता । बृह॒स्पति॑: । इ॒न्द्रा॒ग्नी इति॑ । अ॒श्विना॑ । तर्हि॑ । कम् । ते । ज्ये॒ष्ठम् । उप॑ । आ॒स॒त॒ ॥१०.५॥
स्वर रहित मन्त्र
अजाता आसन्नृतवोऽथो धाता बृहस्पतिः। इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥
स्वर रहित पद पाठअजाता: । आसन् । ऋतव: । अथो इति । धाता । बृहस्पति: । इन्द्राग्नी इति । अश्विना । तर्हि । कम् । ते । ज्येष्ठम् । उप । आसत ॥१०.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अजाताः) अनुत्पन्नाः। अप्रादुर्भूताः (आसन्) अभवन् (ऋतवः) वसन्ताद्याः कालाः (अथो) अपि च (धाता) सर्वस्य विधाता-निरु० ११।१०। इति मध्यस्थानदेवतासु पाठात्। लोकानां धारक आकाशः (बृहस्पतिः) बृहस्पतिर्बृहतः पाता या पालयिता वा-निरु० १०।११। इति मध्यस्थानदेवतासु पाठात्। बृहतां प्राणिनां रक्षको वायुः (इन्द्राग्नी) मेघतापौ (अश्विना) अहोरात्रौ निरु० १२।१। (तर्हि) तदा (कम्) अधिष्ठातारम् (ते) पूर्वोक्ताः (ज्येष्ठम्) सर्वोत्कृष्टम् (उपासत) पूजितवन्तः ॥
इस भाष्य को एडिट करें