अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तमि॑तिहा॒सश्च॑पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । इ॒ति॒ह॒ऽआ॒स: । च॒ । पु॒रा॒णम् । च॒ । गाथा॑: । च॒ । ना॒रा॒शं॒सी: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.११॥
स्वर रहित मन्त्र
तमितिहासश्चपुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥
स्वर रहित पद पाठतम् । इतिहऽआस: । च । पुराणम् । च । गाथा: । च । नाराशंसी: । च । अनुऽव्यचलन् ॥६.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११, १२−(तम्)व्रात्यम् (इतिहासः) इतिह पारम्पार्य्योपदेश आस्तेऽस्मिन्। इतिह+आस उपवेशनेविद्यमानतायां च-घञ्। महापुरुषाणां वृत्तान्तः (च) (पुराणम्) प्राचीनपुरुषाणांवृत्तान्तः (च) (गाथाः) उपिकुषिगार्तिभ्यस्थन्। उ० २।४। गै गाने-थन्। गानयोग्यावेदमन्त्राः। शिक्षाप्रदाः श्लोकादयः (नाराशंसीः) अ० १४।१।७। नर+शंसुस्तुतौ-अण्। दीर्घश्च, ततः स्वार्थे-अण्, ङीप्। येन नराः प्रशस्यन्ते स नाराशंसोमन्त्रः-निरु० ९।९। वीरनराणां कीर्तनानि (अनुव्यचलन्) अनुसृत्य व्यचरन्। अन्यत्पूर्ववत् स्पष्टं च ॥
इस भाष्य को एडिट करें