अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 18
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऋ॑तू॒नां च॒ वै सआ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठऋ॒तू॒नाम् । च॒ । वै । स: । आ॒र्त॒वाना॑म् । च॒ । लोका॑नाम् । च॒ । लौ॒क्याना॑म् । च॒ । मासा॑नाम् । च॒ । अ॒र्ध॒ऽमा॒साना॑म् । च॒ । अ॒हो॒रा॒त्रयो॑: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१८॥
स्वर रहित मन्त्र
ऋतूनां च वै सआर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानांचाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठऋतूनाम् । च । वै । स: । आर्तवानाम् । च । लोकानाम् । च । लौक्यानाम् । च । मासानाम् । च । अर्धऽमासानाम् । च । अहोरात्रयो: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.१८॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७, १८−(तम्)व्रात्यम् (ऋतवः) वसन्तादयः (आर्तवाः) ऋतुभवाः पदार्थाः (लोकाः) भुवनानि (लौक्याः) लोक-ण्य। लोकभवाः पदार्थाः (मासाः) (अर्धमासाः) (अहोरात्रे)रात्रिदिने। अन्यत् पूर्ववत् सुगमं च ॥
इस भाष्य को एडिट करें