अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 21
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
दिते॑श्च॒ वै सोऽदि॑ते॒श्चेडा॒याश्चे॑न्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठदिते॑: । च॒ । वै । स: । अदि॑ते: । च॒ । इडा॑या: । च॒ । इ॒न्द्रा॒ण्या: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२१॥
स्वर रहित मन्त्र
दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठदिते: । च । वै । स: । अदिते: । च । इडाया: । च । इन्द्राण्या: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.२१॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०, २१−(तम्)व्रात्यम् (दितिः) दो अवखण्डने-क्तिच्। खण्डिता विकृतिः। कार्यरूपा नाशशीलासृष्टिः (अदितिः) दो अवखण्डने-क्तिन्। अखण्डिता प्रकृतिः। अविनाशिनी परमाणुरूपासामग्री (इडा) वेदवाणी निघ० १।११ (इन्द्राणी) इन्द्रस्य जीवस्य पत्नी विभूतिःशक्तिः। अन्यत् पूर्ववत् स्पष्टं च ॥
इस भाष्य को एडिट करें