अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 22
सूक्त - अध्यात्म अथवा व्रात्य
देवता - परोष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स दिशोऽनु॒व्यचल॒त्तं वि॒राडनु॒ व्यचल॒त्सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ॥
स्वर सहित पद पाठस: । दिश॑: । अनु॑ । वि । अ॒च॒ल॒त् । तम् । वि॒ऽराट् । अनु॑ । वि । अ॒च॒ल॒त् । सर्वे॑ । च॒ । दे॒वा: । सर्वा॑ । च॒ । दे॒वता॑: ॥६.२२॥
स्वर रहित मन्त्र
स दिशोऽनुव्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः ॥
स्वर रहित पद पाठस: । दिश: । अनु । वि । अचलत् । तम् । विऽराट् । अनु । वि । अचलत् । सर्वे । च । देवा: । सर्वा । च । देवता: ॥६.२२॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२, २३−(सः) व्रात्यः (दिशः) सर्वाः दिशाः (तम्) व्रात्यम् (विराट्) वि+राजृ दीप्तौ-क्विप्।विविधपदार्थैः प्रकाशमानो ब्रह्माण्डरूपसंसारः (देवाः) दिव्यपदार्थाः (देवताः)दिव्यशक्तयः। अन्यत् पूर्ववद् यथावद् योजनीयञ्च ॥
इस भाष्य को एडिट करें