अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 26
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
प्र॒जाप॑तेश्च॒वै स प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठप्र॒जाऽप॑ते: । च॒ । वै । स: । प॒र॒मे॒ऽस्थीन॑:। च॒ । पि॒तु: । च॒ । पि॒ता॒म॒हस्य॑ । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२६॥
स्वर रहित मन्त्र
प्रजापतेश्चवै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद॥
स्वर रहित पद पाठप्रजाऽपते: । च । वै । स: । परमेऽस्थीन:। च । पितु: । च । पितामहस्य । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.२६॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४-२६−(सः) व्रात्यःपरमात्मा (अन्तर्देशान्) मध्यदेशान् (तम्) व्रात्यम् (प्रजापतिः) प्रजापालकोराजा (परमेष्ठी) उच्चपदस्थ आचार्यः संन्यासी वा (पिता) जनकः (पितामहः) पितुःपिता। अन्यत् पूर्ववद् यथोचितं योजनीयं च ॥
इस भाष्य को एडिट करें