Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 14
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमापो॒ बिभ्र॑तीर्म॒णिं सदा॑ धाव॒न्त्यक्षि॑ताः। स आ॑भ्यो॒ऽमृत॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । आप॑: । बिभ्र॑ती: । म॒णिम् । सदा॑ । धा॒व॒न्ति॒ । अक्षि॑ता: । स: । आ॒भ्य॒: । अ॒मृत॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१४॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः। स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । आप: । बिभ्रती: । मणिम् । सदा । धावन्ति । अक्षिता: । स: । आभ्य: । अमृतम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 14

    भावार्थ -
    (यम् अबध्नात्० इत्यादि) पूर्ववत्। (तं मणिं आपः बिभ्रतीः) उस नर-रत्न को अपने भीतर धारण करने हारी ‘आपः’ आप्त प्रजाएं जल धाराओं के समान (सदा) निरन्तर (अक्षिताः) विना विनाश के निरन्तर (धावन्ति) चला करती हैं। (सः) वह नर-रत्न (आभ्यः) इन प्रजाओं के लिये (भूयो भूयः) अधिकाधिक (अमृतम् इत् दुहे) मृत या दीर्घायु या अमर जीवन को पूर्ण करता है। (तेन त्वं द्विषतः श्वः श्वः जहि) इत्यादि पूर्ववत्।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top