Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 17
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । इ॒मम् । दे॒वता॑: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒न्त॒ । श॒म्ऽभुव॑म् । स: । आ॒भ्य॒: । विश्व॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय: । श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१७॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम्। स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । इमम् । देवता: । मणिम् । प्रति । अमुञ्चन्त । शम्ऽभुवम् । स: । आभ्य: । विश्वम् । इत् । दुहे । भूय:ऽभूय: । श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 17

    भावार्थ -
    (यम् अबध्नात्० इत्यादि) पूर्ववत्। (शम्भुवम्) कल्याण और सुख के उत्पादक (तम् इमं मणिम्) इस नर-रत्न को (देवताः) दिव्य शक्तियां और दिव्य पदार्थ स्वयं (प्रत्यमुञ्चन्त) धारण करते हैं। (सः) वह नर-रत्न (आभ्यः) उन दिव्य पदार्थों के द्वारा (विश्वम् इद्) समस्त संसार के सारे पदार्थ को (भूयो भूयः) अधिकाधिक (दुहे) प्राप्त करता है। (तेन श्वः श्वः त्वं० इत्यादि) पूर्ववत्।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top