Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 16
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान्यु॒धाज॑यन्। स ए॑भ्यो॒ जिति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । देवा: । बिभ्र॑त: । म॒णिम् । सर्वा॑न् । लो॒कान् । यु॒धा । अ॒ज॒य॒न् । स: । ए॒भ्य॒: । जिति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१६॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं देवा बिभ्रतो मणिं सर्वांल्लोकान्युधाजयन्। स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । देवा: । बिभ्रत: । मणिम् । सर्वान् । लोकान् । युधा । अजयन् । स: । एभ्य: । जितिम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 16

    भावार्थ -
    (यम् अबध्नात्० इत्यादि) पूर्ववत्। (तं मणिम्) उस नररत्न पुरुष को (बिभ्रतः) अपने बीच धारण करते हुए (देवाः) विद्वान् पुरुष (युधा) अपने युद्ध करने के सामर्थ्य से (सर्वान् लोकान्) समस्त लाकों को (अजयन्) विजय कर लेते हैं। (सः) वह नरमणि ही (एभ्यः) उन देव विद्वान् पुरुषों के लिये (भूयः भूयः) अधिकाधिक (जितिम् इत् दुहे) विजयों को करता है। ‘तेन श्वः श्वः०’ इत्यादि पूर्ववत्।

    ऋषि | देवता | छन्द | स्वर - बृहस्पतिर्ऋषिः। फालमणिस्त वनस्पतिर्देवता। १, ४, २१ गायत्र्याः, ३ आप्या, ५ षट्पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-९ त्र्यवसाना अष्टपदा अष्टयः, १० नवपदा धृतिः, ११, २३-२७ पथ्यापंक्तिः, १२-१७ त्र्यवसाना षट्पदाः शक्वर्यः, २० पथ्यापंक्तिः, ३१ त्र्यवसाना षट्पदा जगती, ३५ पञ्चपदा अनुष्टुब् गर्भा जगती, २, १८, १९, २१, २२, २८-३०, ३२-३४ अनुष्टुभः। पञ्चत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top