Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 22 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - त्रिष्टुप् सूक्तम् - तक्मनाशन सूक्त
    38

    अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्। अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒राङ् वा॒ परे॑हि ॥

    स्वर सहित पद पाठ

    अ॒यम् । य: । विश्वा॑न् । हरि॑तान् । कृ॒णोषि॑ । उ॒त्ऽशो॒चय॑न् । अ॒ग्नि:ऽइ॑व । अ॒भि॒ऽदु॒न्वन् । अध॑ । हि ।त॒क्म॒न् ।अ॒र॒स:। हि । भू॒या: । अध॑ । न्य᳡ङ् । अ॒ध॒राङ् । वा॒ । परा॑ । इ॒हि॒ ॥२२.२॥

    स्वर रहित मन्त्र

    अयं यो विश्वान्हरितान्कृणोष्युच्छोचयन्नग्निरिवाभिदुन्वन्। अधा हि तक्मन्नरसो हि भूया अधा न्यङ्ङधराङ् वा परेहि ॥

    स्वर रहित पद पाठ

    अयम् । य: । विश्वान् । हरितान् । कृणोषि । उत्ऽशोचयन् । अग्नि:ऽइव । अभिऽदुन्वन् । अध । हि ।तक्मन् ।अरस:। हि । भूया: । अध । न्यङ् । अधराङ् । वा । परा । इहि ॥२२.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    रोग नाश करने का उपदेश।

    पदार्थ

    (अयम्) यह (यः) जो तू (विश्वान्) सब [मनुष्यों] को (उच्छोचयन्) शोक में डालता हुआ, और (अग्निः इव) अग्नि के समान (अभिदुन्वन्) तपाता हुआ (हरितान्) पीला (कृणोषि) कर देता है। (अध) सो (हि) इसलिये (तक्मन्) हे दुःखित जीवन करने हारे ज्वर ! तू (हि) अवश्य (अरसः) निर्बल (भूयाः) होजा। (अध) और (वा) अथवा (न्यङ्) नीच स्थान से (अधराङ्) नीच स्थान को (परा इहि) चम्पत हो जा ॥२॥

    भावार्थ

    जैसे सद्वैद्य ज्वर आदि रोगों को, वैसे ही बुद्धिमान् कुकाम, कुक्रोध आदि को निकाल देवे ॥२॥

    टिप्पणी

    २−(अयम्) प्रसिद्धः (यः) यस्त्वम् (विश्वान्) सर्वान् मनुष्यान् (हरितान्) अ० १।२५।२। पीतवर्णान् (कृणोषि) करोषि (उच्छोचयन्) शुच शोके णिचि, शतृ। विपादयन् (अग्निः इव) पावको यथा (अभिदुन्वन्) टुदु उपतापे−शतृ। उपतापयन् (अध) अथ। अपि (हि) यस्मात् कारणात् (तक्मन्) म० १। हे कृच्छ्रजीवनकर ज्वर (अरसः) असमर्थः। निष्प्रभावः (हि) अवश्यम् (भूयाः) (अध) (न्यङ्) नि+अञ्च गतौ−क्विन्, विभक्तिलोपः। नीचः। निम्नस्थानात् (अधराङ्) अधर+अञ्चु गतौ−क्विन्, विभक्तिलोपः। नीचः। निम्नस्थानात् (अधराङ्) अधर+अञ्चु−क्विन्। नीचस्थानम् (वा) अथवा (परा) पृथक् (इहि) गच्छ ॥

    इंग्लिश (1)

    Subject

    Cure of Fever

    Meaning

    This fever which reduces all to pallor, consuming them like fire with high temperature, may, with treatment, lose its intensity, go down to normal and disappear for all time.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top