Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 11
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यः श्म्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्। ओ॑जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽ‍अवि॑न्दत् ॥ ओ॒जा॒यमा॑नम् । य: । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.११॥


    स्वर रहित मन्त्र

    यः श्म्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्। ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनुऽ‍अविन्दत् ॥ ओजायमानम् । य: । अहिम् । जघान । दानुम् । शयानम् । स: । जनास: । इन्द्र: ॥३४.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 11

    भाषार्थ -
    (पर्वतेषु) पर्वतों में (क्षियन्तम्) निवास किये हुए (शम्बरम्) जलमय हिमपर्वत को, (चत्वारिंश्याम्) चालीसवीं (शरदि) शरद् ऋतु में अर्थात् ४० वर्षों के पश्चात् (यः) जो (अविन्दत्) प्राप्त करता है, तथा (यः) जो (ओजायमानम्) उमड़े हुए, (दानुम्) जल देने की प्रवृत्तिवाले, (शयानम्) परन्तु अन्तरिक्ष में सोए पड़े से, अर्थात् जो अभी जलदान नहीं करता, उस (अहिम्) मेघ का (जघान) हनन करता है—(जनासः) हे प्रजाजनो! (सः इन्द्रः) वह परमेश्वर है।

    इस भाष्य को एडिट करें
    Top