अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 5
धनं॒ न स्प॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान्। तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥
स्वर सहित पद पाठधन॑म् । न । स्प॒न्द्रम् । ब॒हु॒लम् । य: । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ॥ तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒त: । अह्न॑: । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥८९.५॥
स्वर रहित मन्त्र
धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमाँ आसुनोति प्रयस्वान्। तस्मै शत्रून्त्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥
स्वर रहित पद पाठधनम् । न । स्पन्द्रम् । बहुलम् । य: । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ॥ तस्मै । शत्रून् । सुऽतुकान् । प्रात: । अह्न: । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥८९.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 5
भाषार्थ -
(यः) जो (प्रयस्वान्) प्रयासशील उपासक, अपनी (स्पन्द्रम्) अस्थायी (बहुलम्) प्रभूत (धनम्) सम्पत्ति के (न) सदृश, (तीव्रान् सोमान्) अपने तीव्र-प्रवाही भक्तिरसों को, (अस्मै) इस परमेश्वर के प्रति (आ सुनोति) पूर्णतया समर्पित कर देता है, (तस्मै) उस उपासक के लिए, (अह्नः प्रातः) दिन के किसी प्रातःकाल में परमेश्वर, (स्वष्ट्रान्) उस के जीवन में व्याप्त (शत्रून्) कामादि शत्रुओं को, (सुतुकान्) और उन से सुगमता से उत्पन्न दुष्परिणामों को (नि युवति) पृथक् कर देता है, और (वृत्रम्) उस वृत्रवर्ग का (हन्ति) हनन कर देता है।
टिप्पणी -
[स्पन्द्रम्=स्पदि किंचिच्चलने। स्वष्ट्रान्=सु+अष् (अश् व्याप्तौ); यथा “अष्ट”=अभ्यश्नुवीताम्; तथा “अष्टौ”=अश्नोतेः (निरु০ १३.१.२; ३.२.१०)।]