अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 11
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्रयवसाना षट्पदा विराडष्टिः
सूक्तम् - भूमि सूक्त
गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तोऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु। ब॒भ्रुं कृ॒ष्णां रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्। अजी॒तोऽह॑तो॒ अक्ष॒तोऽध्य॑ष्ठां पृथि॒वीमह॑म् ॥
स्वर सहित पद पाठगि॒रय॑: । ते॒ । पर्व॑ता: । हि॒मऽव॑न्त: । अर॑ण्यम् । ते॒ । पृ॒थि॒वि॒ । स्यो॒नम् । अ॒स्तु॒ । ब॒भ्रुम् । कृ॒ष्णाम् । रोहि॑णीम् । वि॒श्वऽरू॑पाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । इन्द्र॑ऽगुप्ताम् । अजी॑त: । अह॑त: । अक्ष॑त: । अधि॑ । अ॒स्था॒म् । पृ॒थि॒वीम् । अ॒हम् ॥१.११॥
स्वर रहित मन्त्र
गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु। बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्। अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥
स्वर रहित पद पाठगिरय: । ते । पर्वता: । हिमऽवन्त: । अरण्यम् । ते । पृथिवि । स्योनम् । अस्तु । बभ्रुम् । कृष्णाम् । रोहिणीम् । विश्वऽरूपाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । इन्द्रऽगुप्ताम् । अजीत: । अहत: । अक्षत: । अधि । अस्थाम् । पृथिवीम् । अहम् ॥१.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 11
Translation -
O motherland, auspicious be thy woodlands, auspicious be thy hills and snow-clad mountains. Unslain, unwounded, unsubdued, I rule over the Earth, on earth, the nourisher of all, cultivated by the peasants, full of various kinds of cereals and plants, inhabited by men of different complexions, on the firm, vast earth, well-guarded by the king against danger.
Footnote -
A brave general.