अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 13
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना पञ्चपदा शक्वरी
सूक्तम् - भूमि सूक्त
यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥
स्वर सहित पद पाठयस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माण: । यस्या॑म् । मी॒यन्ते॑ । स्वर॑व: । पृ॒थि॒व्याम् । ऊ॒र्ध्वा: । शु॒क्रा: । आऽहु॑त्या: । पु॒रस्ता॑त् । सा । न॒: । भूमि॑: । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥
स्वर रहित मन्त्र
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः। यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्। सा नो भूमिर्वर्धयद्वर्धमाना ॥
स्वर रहित पद पाठयस्याम् । वेदिम् । परिऽगृह्णन्ति । भूम्याम् । यस्याम् । यज्ञम् । तन्वते । विश्वऽकर्माण: । यस्याम् । मीयन्ते । स्वरव: । पृथिव्याम् । ऊर्ध्वा: । शुक्रा: । आऽहुत्या: । पुरस्तात् । सा । न: । भूमि: । वर्धयत् । वर्धमाना ॥१.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 13
Translation -
Earth on whose surface people prepare the altar for performing the Yajna, in which all enterprising persons perform philanthropic deeds. In whom the stakes of sacrifice, resplendent, are fixed and raised on high before pouring the oblation, where encouraging sermons are delivered, may she, this motherland, prospering, make us prosper.