अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 25
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना सप्तपदोष्णिगनुष्टुब्गर्भा शक्वरी
सूक्तम् - भूमि सूक्त
यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑। यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑। क॒न्यायां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
स्वर सहित पद पाठय: । ते॒ । ग॒न्ध: । पुरु॑षेषु । स्त्री॒षु । पु॒म्ऽसु । भग॑: । रुचि॑: । य: । अश्वे॑षु । वी॒रेषु॑ । य: । मृ॒गेषु॑ । उ॒त । ह॒स्तिषु॑ । क॒न्या᳡याम् । वर्च॑: । यत् । भू॒मे॒ । तेन॑ । अ॒स्मान् । अपि । सम् । सृ॒ज॒ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । च॒न ॥२.२५॥
स्वर रहित मन्त्र
यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः। यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु। कन्यायां वर्चो यद्भूमे तेनास्माँ अपि सं सृज मा नो द्विक्षत कश्चन ॥
स्वर रहित पद पाठय: । ते । गन्ध: । पुरुषेषु । स्त्रीषु । पुम्ऽसु । भग: । रुचि: । य: । अश्वेषु । वीरेषु । य: । मृगेषु । उत । हस्तिषु । कन्यायाम् । वर्च: । यत् । भूमे । तेन । अस्मान् । अपि । सम् । सृज । मा । न: । द्विक्षत । क: । चन ॥२.२५॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 25
Translation -
Thy scent in women and in men, the luck and light that is in males, the swiftness that is in heroes and in steeds, in sylvans beasts and elephants, the splendid energy of maids, therewith do thou unite us, O Motherland ! Let no man look on us with hate.