अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 51
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदानुष्टुब्गर्भा ककुम्मती शक्वरी
सूक्तम् - भूमि सूक्त
यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्। वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ॥
स्वर सहित पद पाठयाम् । द्वि॒ऽपाद॑: । प॒क्षिण॑: । स॒म्ऽपत॑न्ति । हं॒सा: । सु॒ऽप॒र्णा: । श॒कु॒ना: । वयां॑सि । यस्या॑म् । वात॑: । मा॒त॒रिश्वा॑ । ईयते॑ । रजां॑सि । कृ॒ण्वन् । च्य॒वय॑न् । च॒ । वृ॒क्षान् । वात॑स्य । प्र॒ऽवाम् । उ॒प॒ऽवान् । अनु॑ । वा॒ति॒ । अ॒र्चि: ॥१.५१॥
स्वर रहित मन्त्र
यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि। यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान्। वातस्य प्रवामुपवामनु वात्यर्चिः ॥
स्वर रहित पद पाठयाम् । द्विऽपाद: । पक्षिण: । सम्ऽपतन्ति । हंसा: । सुऽपर्णा: । शकुना: । वयांसि । यस्याम् । वात: । मातरिश्वा । ईयते । रजांसि । कृण्वन् । च्यवयन् । च । वृक्षान् । वातस्य । प्रऽवाम् । उपऽवान् । अनु । वाति । अर्चि: ॥१.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 51
Translation -
On whom the winged bipeds, the swans, the eagles, and birds of various kinds fly together. On whom the Wind from heaven comes rushing, rousing the dust and uprooting trees. Fire kindles brighter by the blowing of air hither and thither.