Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 15
    सूक्त - सिन्धुद्वीपः देवता - आपः, चन्द्रमाः छन्दः - चतुरवसाना दशपदा त्रैष्टुभगर्भातिधृतिः सूक्तम् - विजय प्राप्ति सूक्त

    यो व॑ आपो॒ऽपां भा॒गो॒प्स्व॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥

    स्वर सहित पद पाठ

    य: । व॒: । आ॒प॒: । अ॒पाम् । भा॒ग: । अ॒प्ऽसु । अ॒न्त: । य॒जु॒ष्य᳡: । दे॒व॒ऽयज॑न: । इ॒दम् । तम् । अति॑ । सृ॒जा॒मि॒ । तम् । मा । अ॒भि॒ऽअव॑निक्षि । तेन॑ । तम् । अ॒भि॒ऽअति॑सृजाम: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒धे॒य॒म् । तम् । स्तृ॒षी॒य॒ । अ॒नेन॑ । ब्रह्म॑णा । अ॒नेन॑ । कर्म॑णा । अ॒नया॑ । मे॒न्या ॥५.१५॥


    स्वर रहित मन्त्र

    यो व आपोऽपां भागोप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥

    स्वर रहित पद पाठ

    य: । व: । आप: । अपाम् । भाग: । अप्ऽसु । अन्त: । यजुष्य: । देवऽयजन: । इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.१५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 15

    Word Meaning -
    (आप:) हे आप्त- अपवादहीन,अभ्यस्त, तर्क संगत, बुद्धिमान ,सत्याधारित प्रजा जनो – (व:) तुम्हारा (य:) जो (अपाम्‌) प्रजासम्बंधी – समस्त समाज से सम्बंधित (यजुष्य देवयजन:) ऋषियों द्वारा निर्देषित यज्ञादि कार्य करने की ( अप्सु अन्त:) तुम्हारे हृदय में संचार करनेवाले तत्वों की प्रेरणा | इदं तं अति सृजामि तं माभ्यवनिक्षि । (तम्‌) के द्वारा (इदम्‌) तुम्हारे शरीर और मन को (अतिसृजामि) समर्पित करता हूं (तम्‌ मा) वह तुम्हारे (अभि अवनिक्षि) आचरण को पवित्र करे | तेन तं अभ्यतिसृजामो योऽस्मान्द्वेष्टि यं वयं द्विष्मः । (तेन तम्‌) उस पवित्र आचरण से (अभि अतिसृजाम:) अपने आंतरिक शत्रुओं पर विजयी हो कर (योऽस्मान्द्वेष्टि यं वयं द्विष्मः) जो हम से द्वेष करते हैं और हम जिन से द्वेष करते हैं उन पर विजय पाएं | तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या | (अनेन ब्रह्मणा) इस वेद ज्ञान (अनेन कर्मणा) पर आधारित कर्मकाण्ड (अनया मेन्या) के वज्र द्वारा (तं वधेयं ) उन शत्रुओं का वध करें (तं स्तृषीय) उन का विनाश करें |

    इस भाष्य को एडिट करें
    Top