Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 104
    ऋषिः - हिरण्यगर्भ ऋषिः देवता - अग्निर्देवता छन्दः - भुरिग् गायत्री स्वरः - षड्जः
    6

    अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म्। तद्दे॒वेभ्यो॑ भरामसि॥१०४॥

    स्वर सहित पद पाठ

    अग्ने॑। यत्। ते॒। शु॒क्रम्। यत्। च॒न्द्रम्। यत्। पू॒तम्। यत्। च॒। य॒ज्ञिय॑म्। तत्। दे॒वेभ्यः॑। भ॒रा॒म॒सि॒ ॥१०४ ॥


    स्वर रहित मन्त्र

    अग्ने यत्ते शुक्रँयच्चन्द्रँयत्पूतँयच्च यज्ञियम् । तद्देवेभ्यो भरामसि ॥


    स्वर रहित पद पाठ

    अग्ने। यत्। ते। शुक्रम्। यत्। चन्द्रम्। यत्। पूतम्। यत्। च। यज्ञियम्। तत्। देवेभ्यः। भरामसि॥१०४॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 104
    Acknowledgment

    अन्वयः - हे अग्ने विद्वन्! यत्पावकस्य शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियं स्वरूपमस्ति, तत्ते देवेभ्यश्च वयं भरामसि॥१०४॥

    पदार्थः -
    (अग्ने) विद्वन् (यत्) (ते) तुभ्यम् (शुक्रम्) आशुकरम् (यत्) (चन्द्रम्) हिरण्यवदानन्दप्रदम् (यत्) (पूतम्) पवित्रम् (यत्) (च) (यज्ञियम्) यज्ञानुष्ठानार्हं स्वरूपम् (तत्) (देवेभ्यः) गुणेभ्यः (भरामसि) भरेम। [अयं मन्त्रः शत॰७.३.१.२२ व्याख्यातः]॥१०४॥

    भावार्थः - मनुष्यैर्दिव्यगुणकर्म्मसिद्धये विद्युदादेरग्नेर्विद्या संप्रेक्षणीया॥१०४॥

    इस भाष्य को एडिट करें
    Top