Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 108
    ऋषिः - पावकाग्निर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् पङ्क्तिः स्वरः - पञ्चमः
    11

    ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः। त्वेऽइषः॒ संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः॥१०८॥

    स्वर सहित पद पाठ

    ऊर्जः॑। न॒पा॒त्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। सु॒श॒स्तिभि॒रिति॑ सुश॒स्तिऽभिः॑। मन्द॑स्व। धी॒तिभि॒रिति॑ धी॒तिऽभिः॑। हि॒तः। त्वेऽइति॒ त्वे। इषः॑। सम्। द॒धुः॒। भूरि॑वर्पस॒ इति भूरि॑ऽवर्पसः। चि॒त्रोत॑य॒ इति॑ चि॒त्रऽऊ॑तयः। वा॒मजा॑ता॒ इति॑ वा॒मऽजा॑ताः ॥१०८ ॥


    स्वर रहित मन्त्र

    ऊर्जा नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वेऽइषः सन्दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥


    स्वर रहित पद पाठ

    ऊर्जः। नपात्। जातवेद इति जातऽवेदः। सुशस्तिभिरिति सुशस्तिऽभिः। मन्दस्व। धीतिभिरिति धीतिऽभिः। हितः। त्वेऽइति त्वे। इषः। सम्। दधुः। भूरिवर्पस इति भूरिऽवर्पसः। चित्रोतय इति चित्रऽऊतयः। वामजाता इति वामऽजाताः॥१०८॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 108
    Acknowledgment

    अन्वयः - हे जातवेदस्तनय! यस्मिँस्त्वे त्वयि भूरिवर्पसश्चित्रोतयो वामजाता मात्रादयोऽध्यापिका इषः संदधुः, स सुशस्तिभिर्धीतिभिराहूतस्त्वम् ऊर्ज्जो नपाद्धितः सदा मन्दस्व॥१०८॥

    पदार्थः -
    (ऊर्जः) पराक्रमस्य (नपात्) न विद्यते पातो धर्मात् पतनं यस्य सः (जातवेदः) जातप्रज्ञान जातवित्त (सुशस्तिभिः) शोभनाभिः प्रशंसाभिः क्रियाभिः सह (मन्दस्व) आनन्द (धीतिभिः) स्वाङ्गुलीभिः, धीतय इत्यङ्गुलिनामसु पठितम्॥ (निघं॰२.५) (हितः) सर्वस्य हितं दधन् (त्वे) त्वयि (इषः) अन्नादीनि (सम्) (दधुः) दधतु (भूरिवर्पसः) बहूनि प्रशंसनीयानि वर्पांसि रूपाणि यासु ताः। वर्प इति रूपनामसु पठितम्॥ (निघं॰३.७) (चित्रोतयः) चित्रा आश्चर्य्यवद् रक्षणाद्याः क्रिया यासु ताः (वामजाताः) वामेषु प्रशस्येषु कर्मसु वा जाताः प्रसिद्धाः, वाम इति प्रशस्यनामसु पठितम्॥ (निघं॰३.८)। [अयं मन्त्रः शत॰७.३.१.३१ व्याख्यातः]॥१०८॥

    भावार्थः - येषां कुमाराणां कुमारीणां मातरो विद्याप्रिया विदुष्यः सन्ति, त एव सततं सुखमाप्नुवन्ति। यासां मातॄणां येषां पितॄणां चापत्यानि विद्यासुशिक्षाब्रह्मचर्य्यैः शरीरात्मबलयुक्तानि धर्माचारीणि सन्ति, त एव सदा सुखिनः स्युः॥१०८॥

    इस भाष्य को एडिट करें
    Top