Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 77
    ऋषिः - भिषगृषिः देवता - वैद्यो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    8

    ओष॑धीः॒ प्रति॑मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः। अश्वा॑ऽइव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॥७७॥

    स्वर सहित पद पाठ

    ओष॑धीः। प्रति॑। मो॒द॒ध्व॒म्। पुष्प॑वती॒रिति॒ पुष्प॑ऽवतीः। प्र॒सूव॑री॒रिति॑ प्र॒ऽसूव॑रीः। अश्वाः॑ऽइ॒वेत्यश्वाः॑ऽइव। स॒जित्व॑री॒रिति॑ स॒ऽजित्व॑रीः। वी॒रुधः॑। पा॒र॒यि॒ष्ण्वः᳖ ॥७७ ॥


    स्वर रहित मन्त्र

    ओषधीः प्रति मोदध्वम्पुष्पवतीः प्रसूवरीः । अश्वाऽइव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥


    स्वर रहित पद पाठ

    ओषधीः। प्रति। मोदध्वम्। पुष्पवतीरिति पुष्पऽवतीः। प्रसूवरीरिति प्रऽसूवरीः। अश्वाःऽइवेत्यश्वाःऽइव। सजित्वरीरिति सऽजित्वरीः। वीरुधः। पारयिष्ण्वः॥७७॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 77
    Acknowledgment

    अन्वयः - हे मनुष्याः यूयमश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः पुष्पवतीः प्रसूवरीरोषधीः संसेव्य प्रतिमोदध्वम्॥७७॥

    पदार्थः -
    (ओषधीः) सोमादीन् (प्रति) (मोदध्वम्) आनन्दयत (पुष्पवतीः) प्रशस्तानि पुष्पाणि यासां ताः (प्रसूवरीः) सुखप्रसाविकाः (अश्वा इव) यथा तुरङ्गा (सजित्वरीः) शरीरैः सह संयुक्ता रोगान् जेतुं शीलाः (वीरुधः) सोमादीन् (पारयिष्ण्वः) रोगजदुःखेभ्यः पारं नेतुं समर्थाः॥७७॥

    भावार्थः - अत्रोपमालङ्कारः। यथाऽश्वारूढा वीराः शत्रून् जित्वा विजयं प्राप्याऽऽनन्दन्ति, तथा सदौषधसेविनः पथ्यकारिणो जितेन्द्रिया जना आरोग्यमवाप्य नित्यं मोदन्ते॥७७॥

    इस भाष्य को एडिट करें
    Top