Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 98
    ऋषिः - वरुण ऋषिः देवता - वैद्या देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    10

    त्वां ग॑न्ध॒र्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पतिः॑। त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत॥९८॥

    स्वर सहित पद पाठ

    त्वाम्। ग॒न्ध॒र्वाः। अ॒ख॒न॒न्। त्वाम्। इन्द्रः॑। त्वाम्। बृह॒स्पतिः॑। त्वाम्। ओ॒ष॒धे॒। सोमः॑। राजा॑। वि॒द्वान्। यक्ष्मा॑त्। अ॒मु॒च्य॒त॒ ॥९८ ॥


    स्वर रहित मन्त्र

    त्वाङ्गन्धर्वाऽअखनँस्त्वामिन्द्रस्त्वाम्बृहस्पतिः । त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ॥


    स्वर रहित पद पाठ

    त्वाम्। गन्धर्वाः। अखनन्। त्वाम्। इन्द्रः। त्वाम्। बृहस्पतिः। त्वाम्। ओषधे। सोमः। राजा। विद्वान्। यक्ष्मात्। अमुच्यत॥९८॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 98
    Acknowledgment

    अन्वयः - हे मनुष्याः! यया सेवितया रोगी यक्ष्मादमुच्यत, यामोषधे ओषधिं यूयमुपयुङ्ग्ध्वम्, त्वां तां गन्धर्वा अखनँस्त्वां तामिन्द्रस्त्वां तां बृहस्पतिस्त्वां तां सोमो विद्वान् राजा च त्वां तां खनेत्॥९८॥

    पदार्थः -
    (त्वाम्) ताम् (गन्धर्वाः) गानविद्याकुशलाः (अखनन्) खनन्ति (त्वाम्) ताम् (इन्द्रः) परमैश्वर्य्ययुक्तः (त्वाम्) ताम् (बृहस्पतिः) वेदवित् (त्वाम्) ताम् (ओषधे) ओषधिम् (सोमः) सोम्यगुणसम्पन्नः (राजा) प्रकाशमानो राजन्यः (विद्वान्) सत्यशास्त्रवित् (यक्ष्मात्) क्षयादिरोगात् (अमुच्यत) मुच्येत॥९८॥

    भावार्थः - याः काश्चिदोषधयो मूलेन काश्चिच्छाखादिना काश्चित् पुष्पेण काश्चित् पत्रेण काश्चित् फलेन काश्चित् सर्वाङ्गैः रोगान् मोचयन्ति, तासां सेवनं मनुष्यैर्यथावत् कार्यम्॥९८॥

    इस भाष्य को एडिट करें
    Top