Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 67
    ऋषिः - विश्वावसुर्ऋषिः देवता - कृषीवलाः कवयो वा देवताः छन्दः - गायत्री स्वरः - षड्जः
    9

    सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वित॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒या॥६७॥

    स्वर सहित पद पाठ

    सीरा॑। यु॒ञ्ज॒न्ति॒। क॒वयः॑। यु॒गा। वि। त॒न्व॒ते॒। पृथ॑क्। धीराः॑। दे॒वेषु॑। सु॒म्न॒येति॑ सुम्न॒ऽया ॥६७ ॥


    स्वर रहित मन्त्र

    सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सूम्नया ॥


    स्वर रहित पद पाठ

    सीरा। युञ्जन्ति। कवयः। युगा। वि। तन्वते। पृथक्। धीराः। देवेषु। सुम्नयेति सुम्नऽया॥६७॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 67
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा धीराः कवयः सीरा युगा च युञ्जन्ति, सुम्नया देवेषु पृथग् वितन्वते, तथा सर्वैरेतदनुष्ठेयम्॥६७॥

    पदार्थः -
    (सीरा) सीराणि हलानि (युञ्जन्ति) युञ्जन्तु (कवयः) मेधाविनः। कविरिति मेधाविनामसु पठितम्॥ (निघं॰३.१५) (युगा) युगानि (वि) (तन्वते) विस्तृणन्ति (पृथक्) (धीराः) ध्यानवन्तः (देवेषु) विद्वत्सु (सुम्नया) सुम्नेन सुखेन, अत्र तृतीयैकवचनस्यायाजादेशः [आङयाजयारामुपसङ्ख्यानम्। (अष्टा॰वा॰७.१.३९)᳕। [अयं मन्त्रः शत॰७.२.२.४ व्याख्यातः]॥६७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरिह विद्वच्छिक्षया कृषिकर्मोन्नेयम्, यथा योगिनो नाडीषु परमेश्वरं समाधियोगेनोपकुर्वन्ति, तथैव कृषिकर्मद्वारा सुखोपयोगः कर्त्तव्यः॥६७॥

    इस भाष्य को एडिट करें
    Top