Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 34
    ऋषिः - वसिष्ठ ऋषिः देवता - अग्निर्देवता छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    10

    प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृहद्भाः। अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दै॒व्यो॒ऽअति॑थिः शि॒वो नः॑॥३४॥

    स्वर सहित पद पाठ

    प्रप्रेति॒ प्रऽप्र॑। अ॒यम्। अ॒ग्निः। भ॒र॒तस्य॑। शृ॒ण्वे॒। वि। यत्। सूर्य्यः॑। न। रोच॑ते। बृ॒हत्। भाः। अ॒भि। यः। पू॒रुम्। पृत॑नासु। त॒स्थौ। दी॒दाय॑। दैव्यः॑। अति॑थिः। शि॒वः। नः॒ ॥३४ ॥


    स्वर रहित मन्त्र

    प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्या न रोचते बृहद्भाः । अभि यः पूरुम्पृतनासु तस्थौ दीदाय दैव्योऽअतिथिः शिवो नः ॥


    स्वर रहित पद पाठ

    प्रप्रेति प्रऽप्र। अयम्। अग्निः। भरतस्य। शृण्वे। वि। यत्। सूर्य्यः। न। रोचते। बृहत्। भाः। अभि। यः। पूरुम्। पृतनासु। तस्थौ। दीदाय। दैव्यः। अतिथिः। शिवः। नः॥३४॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 34
    Acknowledgment

    अन्वयः - हे राजप्रजाजनाः! यूयं यद्योऽयमग्निः सूर्यो न बृहद्भाः प्रप्र रोचते, यो नः पृतनासु पूरुमभि तस्थौ, दैव्योऽतिथिः शिवो विद्या दीदाय, यमहं भरतस्य रक्षकं शृण्वे तं सेनापतिं कुरुत॥३४॥

    पदार्थः -
    (प्रप्र) अतिप्रकर्षेण (अयम्) (अग्निः) सेनेशः (भरतस्य) पालितव्यस्य राज्यस्य (शृण्वे) (वि) (यत्) यः (सूर्य्यः) सविता (न) इव (रोचते) प्रकाशते (बृहद्भाः) महाप्रकाशः (अभि) (यः) (पूरुम्) पूर्णबलं सेनाध्यक्षम्। पूरव इति मनुष्यनामसु पठितम्॥ (निघं॰२.३) (पृतनासु) सेनासु (तस्थौ) तिष्ठेत् (दीदाय) धर्मं प्रकाशयेत् (दैव्यः) देवेषु विद्वत्सु प्रीतः (अतिथिः) नित्यं भ्रमणकर्त्ता विद्वान् (शिवः) मङ्गलप्रदः (नः) अस्मान्। [अयं मन्त्रः शत॰६.८.१.१४ व्याख्यातः]॥३४॥

    भावार्थः - अत्रोपमालङ्कारः। मनुष्यैः यस्य पुण्यकीर्त्तेः पुरुषस्य शत्रुषु विजयो विद्याप्रचारश्च श्रूयते, स कुलीनः सेनाया योधयिताऽधिकर्त्तव्यः॥३४॥

    इस भाष्य को एडिट करें
    Top