Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 5
    ऋषिः - मेधातिथिर्ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगार्षी गायत्री स्वरः - षड्जः
    9

    हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑व्ययामसि। पा॒व॒कोऽअ॒स्मभ्य॑ꣳ शि॒वो भ॑व॥५॥

    स्वर सहित पद पाठ

    हि॒मस्य॑। त्वा॒। ज॒रायु॑णा। अग्ने॑। परि॑। व्य॒या॒म॒सि॒। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒ ॥५ ॥


    स्वर रहित मन्त्र

    हिमस्य त्वा जरायुणाग्ने परिव्ययामसि । पावकोऽअस्मभ्यँ शिवो भव ॥


    स्वर रहित पद पाठ

    हिमस्य। त्वा। जरायुणा। अग्ने। परि। व्ययामसि। पावकः। अस्मभ्यम्। शिवः। भव॥५॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 5
    Acknowledgment

    अन्वयः - हे अग्ने सभेश! वयं हिमस्य जरायुणा त्वा परिव्ययामसि, पावकस्त्वमस्मभ्यं शिवो भव॥५॥

    पदार्थः -
    (हिमस्य) शीतस्य (त्वा) ताम् (जरायुणा) जरामेति येन जरायुस्तेन वस्त्रेणाग्निना वा (अग्ने) अग्निवत् तेजस्विन् (परि) सर्वतः (व्ययामसि) संवृणोमि (पावकः) पवित्रः (अस्मभ्यम्) (शिवः) मङ्गलमयः (भव)॥५॥

    भावार्थः - हे सभेश! यथाग्निर्वस्त्रं वा शीतातुरान् प्राणिनः शैत्याद् वियोज्य प्रसादयति, तथैव त्वदाश्रिता वयं दुःखान्मुक्ताः सन्तः सुखभाजिनः स्याम॥५॥

    इस भाष्य को एडिट करें
    Top