Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 77
    ऋषिः - वसिष्ठ ऋषिः देवता - अग्निर्देवता छन्दः - आर्षी गायत्री स्वरः - षड्जः
    66

    अग्ने॒ तम॒द्याश्व॒न्न स्तोमैः॒ क्रतु॒न्न भ॒द्रꣳ हृ॑दि॒स्पृश॑म्। ऋ॒ध्यामा॑ त॒ऽओहैः॑॥७७॥

    स्वर सहित पद पाठ

    अग्ने॑। तम्। अ॒द्य। अश्व॑म्। न। स्तोमैः॑। क्रतु॑म्। न। भ॒द्रम्। हृ॒दि॒ऽस्पृश॑म्। ऋ॒ध्याम॑। ते॒। ओहैः॑ ॥७७ ॥


    स्वर रहित मन्त्र

    अग्ने तमद्याश्वन्न स्तोमैः क्रतुन्न भद्रँ हृदिस्पृशम् । ऋध्यामा तऽओहैः ॥


    स्वर रहित पद पाठ

    अग्ने। तम्। अद्य। अश्वम्। न। स्तोमैः। क्रतुम्। न। भद्रम्। हृदिऽस्पृशम्। ऋध्याम। ते। ओहैः॥७७॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 77
    Acknowledgment

    अन्वयः - हे अग्ने! विद्युत्सदृशपराक्रमिन्नश्वं न क्रतुं न भद्रं हृदिस्पृशं तं त्वां स्तोमैरद्य प्राप्य ते तवौहैर्वयं सततमृध्याम॥७७॥

    पदार्थः -
    (अग्ने) विद्वन् (तम्) पूर्वमन्त्रोक्तम् (अद्य) (अश्वम्) तुरङ्गम् (न) इव स्तोमैः स्तुतिभिः (क्रतुम्) प्रज्ञानम् (न) इव (भद्रम्) भजनीयं कल्याणकरम् (हृदिस्पृशम्) यो हृदये स्पृशति तम् (ऋध्याम) वर्धेम। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (ते) तव (ओहैः) रक्षणादिभिः॥७७॥

    भावार्थः - अत्रोपमालङ्कारः। यथा शरीरस्थेन विद्युदादिना वृद्धिवेगौ प्रज्ञासुखानि च वर्धेरँस्तथा विद्वच्छिक्षारक्षादिभिर्मनुष्यादयो वर्द्धन्ते॥७७॥

    इस भाष्य को एडिट करें
    Top