यजुर्वेद - अध्याय 17/ मन्त्र 86
ऋषिः - सप्तऋषय ऋषयः
देवता - मरुतो देवताः
छन्दः - निचृच्छक्वरी
स्वरः - धैवतः
9
इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न् यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन्। ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु॥८६॥
स्वर सहित पद पाठइन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। यथा॑। इन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अ॒नु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। ए॒वम्। इ॒मम्। यज॑मानम्। दैवीः॑। च॒। विशः॑। मा॒नु॒षीः। च॒। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। भ॒व॒न्तु॒ ॥८६ ॥
स्वर रहित मन्त्र
इन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानो भवन्यथेन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानोभवन् । एवमिमँयजमानन्दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु ॥
स्वर रहित पद पाठ
इन्द्रम्। दैवीः। विशः। मरुतः। अनुवर्त्मान इत्यनुऽवर्त्मानः। अभवन्। यथा। इन्द्रम्। दैवीः। विशः। मरुतः। अनुवर्त्मान इत्यनुऽवर्त्मानः। अभवन्। एवम्। इमम्। यजमानम्। दैवीः। च। विशः। मानुषीः। च। अनुवर्त्मान इत्यनुऽवर्त्मानः। भवन्तु॥८६॥
विषयः - पुना राजप्रजाः कथं परस्परं वर्तेरन्नित्याह॥
अन्वयः - हे राजँस्त्वं तथा वर्त्तस्व यथेमा दैवीर्विशो मरुतश्चेन्द्रमनुवर्त्मानोऽभवन्, यथा मरुतो दैवीर्दिव्या विशश्चेन्द्रमनुवर्त्मानोऽभवन्। एवं दैवीश्च विशो मानुषीश्च विश इमं यजमानमनुवर्त्मानो भवन्तु॥८६॥
पदार्थः -
(इन्द्रम्) परमैश्वर्ययुक्तं धार्मिकं राजानम् (दैवीः) देवानां विदुषामिमाः (विशः) प्रजाः (मरुतः) ऋत्विजो विद्वांसः (अनुवर्त्मानः) अनुकूलो वर्त्मा मार्गो येषां ते (अभवन्) भवन्तु (यथा) येन प्रकारेण (इन्द्रम्) अखिलैश्वर्यं परमेश्वरम् (दैवीः) (विशः) (मरुतः) प्राणा इव प्रियाः (अनुवर्त्मानः) अनुकूलाचरणाः (अभवन्) (एवम्) (इमम्) (यजमानम्) विद्यासुशिक्षाभ्यां सुखदातारम् (दैवीः) (च) (विशः) (मानुषीः) मानुषाणामविदुषामिमाः (च) (अनुवर्त्मानः) (भवन्तु)॥८६॥
भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा प्रजा राजादीनां राजपुरुषाणामनुकूला वर्त्तेरंस्तथैतेऽपि प्रजानुकूला वर्त्तन्ताम्। यथाऽध्यापकोपदेशकाः सर्वेषां सुखाय प्रयतेरंस्तथैव सर्व एतेषां प्रयतन्ताम्॥८६॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal