यजुर्वेद - अध्याय 17/ मन्त्र 43
ऋषिः - अप्रतिरथ ऋषिः
देवता - इन्द्रो देवता
छन्दः - निचृदार्षी त्रिष्टुप्
स्वरः - धैवतः
6
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ याऽइष॑व॒स्ता ज॑यन्तु। अ॒स्माकं॑ वी॒राऽउत्त॑रे भवन्त्व॒स्माँ२ऽउ॑ देवाऽअवता॒ हवे॑षु॥४३॥
स्वर सहित पद पाठअ॒स्माक॑म्। इन्द्रः॑। समृ॑ते॒ष्विति॒ सम्ऽऋ॑तेषु। ध्व॒जेषु॑। अ॒स्माक॑म्। याः। इष॑वः। ताः। ज॒य॒न्तु॒। अ॒स्माक॑म्। वी॒राः। उत्त॑र॒ इत्युत्ऽत॑रे। भ॒व॒न्तु॒। अ॒स्मान्। ऊँ॒ऽइत्यूँ॑। दे॒वाः॒। अ॒व॒त॒। हवे॑षु ॥४३ ॥
स्वर रहित मन्त्र
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकँयाऽइषवस्ता जयन्तु । अस्माकँवीराऽउत्तरे भवन्त्वस्माँ उ देवाऽअवता हवेषु ॥
स्वर रहित पद पाठ
अस्माकम्। इन्द्रः। समृतेष्विति सम्ऽऋतेषु। ध्वजेषु। अस्माकम्। याः। इषवः। ताः। जयन्तु। अस्माकम्। वीराः। उत्तर इत्युत्ऽतरे। भवन्तु। अस्मान्। ऊँऽइत्यूँ। देवाः। अवत। हवेषु॥४३॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे देवाः! विद्वांसो यूयमस्माकं समृतेषु ध्वजेष्वधोदेशे य इन्द्रोऽस्माकं या इषवः स ताश्च हवेषु जयन्त्वस्माकं वीरा उत्तरे भवन्तु, अस्मानु सर्वत्रावत॥४३॥
पदार्थः -
(अस्माकम्) (इन्द्रः) ऐश्वर्यकारकः सेनेशः (समृतेषु) सम्यक् सत्यन्यायप्रकाशकचिह्नेषु (ध्वजेषु) स्ववीरप्रतीतये रथाद्युपरि स्थापितेषु विजातीयचिह्नेषु (अस्माकम्) (याः) (इषवः) प्राप्ताः सेनाः (ताः) (जयन्तु) विजयिन्यो भवन्तु (अस्माकम्) (वीराः) (उत्तरे) विजयानन्तरसमये कुशला विद्यमानजीवनाः (भवन्तु) (अस्मान्) (उ) वितर्के (देवाः) विजिगीषवः (अवत) रक्षत (हवेषु) ह्वयन्ति स्पर्द्धन्ते परस्परं येषु संग्रामेषु तेषु॥४३॥
भावार्थः - सेनाजनैः सेनापत्यादिभिः स्वस्वरथादिषु भिन्नं भिन्नं चिह्नं संस्थापनीयम्। यतोऽस्यायं रथादिरिति सर्वे जानीयुः, यथा वीराणामश्वानां चाधिकः क्षयो न स्यात्, तथानुष्ठातव्यम्। कुतः? परस्परस्य पराक्रमक्षयेण ध्रुवो विजयो न भवतीति विज्ञेयम्॥४३॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal